शिवानन्दलहरी, Shivananda Lahari, Sivananda Lahari, शिवानन्दलहरी के फायदे, Shivananda Lahari Ke Fayde, शिवानन्दलहरी के लाभ, Shivananda Lahari Ke Labh, Shivananda Lahari Benefits, Shivananda Lahari in Sanskrit, Shivananda Lahari Pdf, Shivananda Lahari Mp3 Download, Shivananda Lahari Lyrics, Shivananda Lahari in Telugu, Shivananda Lahari in Tamil, Shivananda Lahari in Mantra, Shivananda Lahari in Kannada.
10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope ) बनवाए केवल 500/- ( Only India Charges ) में ! Mobile & Whats app Number :+91-9667189678
नोट : यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )
30 साल के फ़लादेश के साथ वैदिक जन्मकुंडली बनवाये केवल 500/- ( Only India Charges ) में ! Mobile & Whats app Number : +91-9667189678
साधना Whatsapp ग्रुप्स
तंत्र-मंत्र-यन्त्र Whatsapp ग्रुप्स
ज्योतिष व राशिफ़ल Whatsapp ग्रुप्स
Daily ज्योतिष टिप्स Whatsapp ग्रुप्स
हर महीनें का राशिफल, व्रत, ज्योतिष उपाय, वास्तु जानकारी, मंत्र, तंत्र, साधना, पूजा पाठ विधि, पंचांग, मुहूर्त व योग आदि की जानकारी के लिए अभी हमारे Youtube Channel Pandit Lalit Trivedi को Subscribers करना नहीं भूलें, क्लिक करके अभी Subscribers करें : Click Here
शिवानन्दलहरी || Shivananda Lahari || Sivananda Lahari 1 – 50
शिवानन्दलहरी भगवान शिव जी को समर्पित हैं ! शिवानन्दलहरी श्री शंकराचार्यजी द्वारा रचित एक सुन्दर स्तोत्र है ! हम यंहा आपको शिवानन्दलहरी के 1 से 50 श्लोक ही बताने जा रहे हैं ! शिवानन्दलहरीके बारे में बताने जा रहे हैं !! जय श्री सीताराम !! जय श्री हनुमान !! जय श्री दुर्गा माँ !! यदि आप अपनी कुंडली दिखा कर परामर्श लेना चाहते हो तो या किसी समस्या से निजात पाना चाहते हो तो कॉल करके या नीचे दिए लाइव चैट ( Live Chat ) से चैट करे साथ ही साथ यदि आप जन्मकुंडली, वर्षफल, या लाल किताब कुंडली भी बनवाने हेतु भी सम्पर्क करें : 9667189678 Shivananda Lahari By Online Specialist Astrologer Acharya Pandit Lalit Trivedi.
शिवानन्दलहरी || Shivananda Lahari || Sivananda Lahari 1 – 50
कलाभ्यां चूडालंकृतशशिकलाभ्यां निजतपः फलाभ्यां भक्तेषुप्रकटितफलाभ्यां भवतु मे ।
शिवाभ्यामस्तोकत्रिभुवनशिवाभ्यां हृदिपुन-र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम् ॥१॥
गलन्ती शम्भो त्वच्चरितसरितः किल्बिषरजो दलन्ती धीकुल्यासरणिषु पतन्ती विजयताम् ।
दिशन्ती संसारभ्रमणपरितापोपशमनं वसन्ती मच्चेतोह्रदभुवि शिवानन्दलहरी ॥२॥
त्रयी वेद्यं हृद्यं त्रिपुरहरमाद्यं त्रिनयनं जटाभारोदारं चलदुरगहारं मृगधरं ।
महादेवं देवं मयि सदयभावं पशुपतिं चिदालंबं सांबं शिवमतिविडंबं हृदि भजे ॥३॥
सहस्रं वर्तन्ते जगति विबुधाः क्षुद्रफलदाः न मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलम् ।
हरिब्रह्मादीनामपि निकटभाजामसुलभं चिरं याचे शंभो शिव तव पदांभोजभजनम् ॥४॥
स्मृतौ शास्त्रे वैद्ये शकुनकवितागानफणितौ पुराणे मंत्रे वा स्तुतिनटनहास्येष्वचतुरः ।
कथं राज्ञां प्रीतिर्भवति मयि कोऽहं पशुपते पशुं मां सर्वज्ञ! प्रथितकृपया पालय विभो॥।५॥
घटो वा मृत्पिण्डोप्यणुरपि च धूमोग्निरचलः पटो वा तन्तुर्वा परिहरति किं घोरशमनम् ।
वृथा कण्ठक्षोभं वहसि तरसा तर्कवचसा पदांभोजं शंभोर्भज परमसौख्यं व्रज सुधीः॥६॥
मनस्ते पादाब्जे निवसतु वचः स्तोत्रफणितौ करौ चाभ्यर्चायां श्रुतिरपि कथाकर्णनविधौ ।
तव ध्याने बुद्धिर्नयनयुगलं मूर्तिविभवे परग्रन्थान् कैर्वा परमशिव जाने परमतः॥।७॥
यथा बुद्धिः शुक्तौ रजतमिति काचाश्मनि मणि-र्जले पैष्टे क्षीरं भवति मृगतृष्णासु सलिलम् ।
तथा देवभ्रान्त्या भजति भवदन्यं जडजनो महादेवेशं त्वां मनसि च न मत्वा पशुपते ॥८॥
गभीरे कासारे विशति विजने घोरविपिने विशाले शैले च भ्रमति कुसुमार्थं जडमतिः ।
समर्प्यैकं चेतःसरसिजमुमानाथ भवते सुखेनावस्थातुं जन इह न जानाति किमहो ॥९॥
नरत्वं देवत्वं नगवनमृगत्वं मशकता पशुत्वं कीटत्वं भवतु विहगत्वादि जननं ।
सदा त्वत्पादाब्जस्मरणपरमानन्दलहरी-विहारासक्तं चेद्धृदयमिह किं तेन वपुषा ॥१०॥
वटुर्वा गेहीवा यतिरपि जटी वा तदितरो नरो वा यः कश्चित् भवतु भव किं तेन भवति ।
यदीयं हृत्पद्मं यदि भवदधीनं पशुपते तदीयस्त्वं शम्भो भवसि भवभारं च वहसि ॥११॥
गुहायां गेहे वा बहिरपि वने वाद्रिशिखरे जले वा वह्नौ वा वसतु वसतेः किं वद फलम् ।
सदा यस्यैवान्तःकरणमपि शम्भो तव पदे स्थितं चेद्योगोऽसौ स च परमयोगी स च सुखी ॥१२॥
असारे संसारे निजभजनदूरे जडधिया भ्रमन्तं मामन्धं परमकृपया पातुमुचितम् ।
मदन्यः को दीनस्तव कृपणरक्षातिनिपुण-स्त्वदन्यः को वा मे त्रिजगति शरण्यः पशुपते ॥१३॥
प्रभुस्त्वं दीनानां खलु परमबन्धुः पशुपते प्रमुख्योऽहं तेषामपि किमुत बन्धुत्वमनयोः।
त्वयैव क्षन्तव्याः शिव मदपराधाश्च सकलाः प्रयत्नात्कर्तव्यं मदवनमियं बन्धुसरणिः ॥१४॥
उपेक्षा नो चेत् किं न हरसि भवद्ध्यानविमुखां दुराशाभूयिष्ठां विधिलिपिमशक्तो यदि भवान् ।
शिरस्तद्वैधात्रं न न खलु सुवृत्तं पशुपते कथं वा निर्यत्नं करनखमुखेनैव लुलितं ॥१५॥
क्या आप सरकारी नौकरी चाहते हो तो यहाँ क्लिक करें: Click Here
सभी सरकारी योजना की जानकारी या लाभ लेने के लिए यहाँ क्लिक करें: Click Here
विरिञ्चिर्दीर्घायुर्भवतु भवता तत्परशिर-श्चतुष्कं संरक्ष्यं स खलु भुवि दैन्यं लिखितवान् ।
विचारः को वा मां विशद कृपया पाति शिव ते कटाक्षव्यापारः स्वयमपि च दीनावनपरः ॥१६॥
फलाद्वा पुण्यानां मयि करुण्या वा त्वयि विभो प्रसन्नेऽपि स्वामिन् भवदमलपादाब्जयुगलं ।
कथं पश्येयं मां स्थगयति नमस्संभ्रमजुषां निलिंपानां श्रेणिः निजकनकमाणिक्यमकुटैः ॥१७॥
त्वमेको लोकानां परमफलदो दिव्यपदवीं वहन्तस्त्वन्मूलां पुनरपि भजन्ते हरिमुखाः ।
कियद्वा दाक्षिण्यं तव शिव मदाशा च कियती कदा वा मद्रक्षां वहसि करुणापूरितदृशा ॥१८॥
दुराशाभूयिष्ठे दुरधिपगृहद्वारघटके दुरन्ते संसारे दुरितनिलये दुःखजनके ।
मदायासं किं न व्यपनयसि कस्योपकृतये वदेयं प्रीतिश्चेत्तव शिव कृतार्थाः खलु वयं ॥१९॥
सदा मोहाटव्यां चरति युवतीनां कुचगिरौ नटत्याशाशाखास्वटति झटिति स्वैरमभितः ।
कपालिन् भिक्षो मे हृदयकपिमत्यन्तचपलं दृढं भक्त्या बद्ध्वा शिव भवदधीनं कुरु विभो ॥२०॥
धृतिस्थंभाधारां दृढगुणनिबद्धां सगमनां विचित्रां पद्माढ्यां प्रतिदिवससन्मार्गघटिताम् ।
स्मरारे मच्चेतःस्फुटपटकुटीं प्राप्य विशदां जय स्वामिन् शक्त्या सह शिवगणैः सेवित विभो ॥२१॥
प्रलोभाद्यैरर्थाहरणपरतन्त्रो धनिगृहे प्रवेशोद्युक्तः सन् भ्रमति बहुधा तस्करपते ।
इमं चेतश्चोरं कथमिह सहे शंकर विभो तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् ॥२२॥
करोमि त्वत्पूजां सपदि सुखदो मे भव विभो विधित्वं विष्णुत्वं दिशसि तस्याः फलमिति ।
पुनश्च त्वां द्रष्टुं दिवि भुवि वहन् पक्षिमृगता-मदृष्ट्वा तत्खेदं कथमिह सहे शंकर विभो ॥ २३॥
कदा वा कैलासे कनकमणिसौधे सहगणैः वसन् शंभोरग्रे स्फुटघटितमूर्धांजलिपुटः।
विभो सांब स्वामिन् परमशिव पाहीति निगदन् विधातॄणां कल्पान् क्षणमिव विनेष्यामि सुखतः ॥२४॥
स्तवैर्ब्रह्मादीनां जयजयवचोभिर्नियमिनां गणानां केलीभिर्मदकलमहोक्षस्य ककुदि ।
स्थितं नीलग्रीवं त्रिनयनमुमाश्लिष्टवपुषं कदा त्वां पश्येयं करधृतमृगं खण्डपरशुम् ॥२५॥
कदा वा त्वां दृष्ट्वा गिरिश तवभव्याङ्घ्रियुगलं गृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन् ।
समाश्लिष्याघ्राय स्फुटजलजगन्धान् परिमला-नलभ्यां ब्रह्माद्यैर्मुदमनुभविष्यामि हृदये ॥२६॥
करस्थे हेमाद्रौ गिरिश निकटस्थे धनपतौ गृहस्थे स्वर्भूजामरसुरभिचिन्तामणिगणॆ।
शिरःस्थे शीतांशौ चरणयुगलस्थेऽखिल शुभे कमर्थं दास्येऽहं भवतु भवदर्थं मम मनः॥२७॥
सारूप्यं तव पूजने शिव महादेवेति संकीर्तने सामीप्यं शिवभक्तिधुर्यजनतासांगत्यसंभाषणे ।
सालोक्यं च चराचरात्मकतनुध्याने भवानीपते सायुज्यं मम सिद्धमत्र भवति स्वामिन् कृतार्थोऽस्म्यहम् ॥२८॥
त्वत्पादांबुजमर्चयामि परमं त्वां चिन्तयाम्यन्वहं त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो ।
वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्चिरं प्रार्थितां शंभो लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ॥२९॥
वस्त्रोद्धूतविधौ सहस्रकरता पुष्पार्चने विष्णुता गन्धे गन्धवहात्मताऽन्नपचने बर्हिर्मुखाध्यक्षता ।
पात्रे काञ्चनगर्भतास्ति मयि चेत्बालेन्दुचूडामणे शुश्रूषां करवाणि ते पशुपते स्वामिन् त्रिलोकीगुरो ॥३०॥
क्या आप सरकारी नौकरी चाहते हो तो यहाँ क्लिक करें: Click Here
सभी सरकारी योजना की जानकारी या लाभ लेने के लिए यहाँ क्लिक करें: Click Here
नालं वा परमोपकारकमिदं त्वेकं पशूनां पते पश्यन् कुक्षिगतांश्चराचरगणान् बाह्यस्थितान् रक्षितुम् ।
सर्वामर्त्यपलायनौषधमतिज्वालाकरं भीकरं निक्षिप्तं गरलं गले न गिलितं नोद्गीर्णमेव त्वया ॥३१॥
ज्वालोग्रस्सकलामरातिभयदःक्ष्वेल: कथं वा त्वया दृष्टः किं च करे धृतः करतले किं पक्वजम्बूफलम्।
जिह्वायां निहितश्च सिद्धघुटिका वा कण्ठदेशेभृतः किं ते नीलमणिर्विभूषणमयं शंभो महात्मन् वद ॥३२॥
नालं वा सकृदेव देव भवतः सेवा नतिर्वा नुतिः पूजा वा स्मरणं कथाश्रवणमप्यालोकनं मादृशाम् ।
स्वामिन्नस्थिरदेवतानुसरणायासेन किं लभ्यते का वा मुक्तिरितः कुतो भवति चेत् किं प्रार्थनीयं मया ॥३३॥
किं ब्रूमस्तव साहसं पशुपते कस्यास्ति शंभो भव-द्धैर्यं चेदृशमात्मनःस्थितिरियं चान्यैः कथं लभ्यते ।
भ्रश्यद्देवगणं त्रसन्मुनिगणं नश्यत्प्रपंचं लयं पश्यन्निर्भय एक एव विहरत्यानन्दसान्द्रो भवान् ॥३४॥
योगक्षेमधुरंधरस्य सकलश्रेयप्रदोद्योगिनो दृष्टादृष्टमतोपदेशकृतिनो बाह्यान्तरव्यापिनः ।
सर्वज्ञस्य दयाकरस्य भवतः किं वेदितव्यं मया शंभो त्वं परमान्तरंग इति मे चित्ते स्मराम्यन्वहम् ॥३५॥
भक्तो भक्तिगुणावृते मुदमृतापूर्णे प्रसन्ने मनः-कुंभे सांब तवांघ्रिपल्लवयुगं संस्थाप्य संवित्फलं ।
सत्त्वं मंत्रमुदीरयन् निजशरीरागारशुद्धिं वहन् पुण्याहं प्रकटीकरोमि रुचिरं कल्याणमापादयन् ॥३६॥
आम्नायांबुधिमादरेण सुमनः संघाः समुद्यन्मनो- मन्थानं दृढभक्तिरज्जुसहितं कृत्वा मथित्वा ततः।
सोमं कल्पतरुं सुपर्वसुरभिं चिन्तामणिं धीमतां नित्यानन्दसुधां निरन्तररमासौभाग्यमातन्वते ॥३७॥
प्राक्पुण्याचलमार्गदर्शितसुधामूर्तिः प्रसन्नः शिवः सोमः सद्गणसेवितो मृगधरः पूर्ण्स्तमोमोचकः।
चेतः पुष्करलक्षितो भवति चेदानन्दपाथोनिधिः प्रागल्भ्येन विजृंभते सुमनसां वृत्तिस्तदा जायते ॥३८॥
धर्मो मे चतुरंघ्रिकः सुचरितः पापं विनाशं गतं कामक्रोधमदादयोविगलिताः काला: सुखाविष्कृतः।
ज्ञानानन्दमहौषधिः सुफलिता कैवल्यनाथे त्वयि मान्ये मानसपुण्डरीकनगरे राजावतंसे स्थिते ॥३९॥
धीयन्त्रेण वचोघटेन कविता कुल्योपकुल्याक्रमै-रानीतैश्च सदाशिवस्यचरितांभोराशिदिव्यामृतैः।
हृत्केदारयुताश्च भक्तिकलमाः साफल्यमातन्वते दुर्भिक्षान्ममसेवकस्य भगवन् विश्वेश भीतिः कुतः ॥४०॥
पापोत्पातविमोचनाय रुचिरैश्वर्याय मृत्युंजय स्तोत्रध्याननतिप्रदक्षिणसपर्यालोकनाकर्णने ।
जिह्वाचित्तशिरोंघ्रिहस्तनयनश्रोत्रैरहं प्रार्थितो मामाज्ञापय तन्निरूपय मुहुर्म्मामेव मा मेऽवचः॥४१॥
गांभीर्यं परिघापदं घनधृतिः प्राकार उद्यद्गुण-स्तोमश्चाप्तबलं घनेन्द्रियचयो द्वाराणि देहे स्थितः।
विद्या वस्तुसमृद्धिरित्यखिलसामग्रीसमेते सदा दुर्गातिप्रिय देव मामकमनोदुर्गे निवासं क्रुरु ॥४२॥
मा गच्छ त्वमितस्ततो गिरिश भो मय्येव वासं कुरु स्वामिन्नादिकिरात मामकमनःकान्तारसीमान्तरे ।
वर्तन्ते बहुशो मृगाः मदजुषो मात्सर्यमोहादयः तान् हत्वा मृगया विनोदरुचितालाभं च संप्राप्स्यसि ॥४३॥
करलग्नमृगः करीन्द्रभंगो घनशार्दूलविखण्डनोऽस्त जन्तुः गिरिशो विशदाकृतिश्च चेतः कुहरे पञ्चमुखोऽस्ति मे कुतो भीः ॥४४॥
छन्दःशाखिशिखान्वितैर्द्विजवरैः संसेविते शाश्वते सौख्यापादिनि खेदभेदिनि सुधासारैः फलैर्दीपिते ।
चेतः पक्षिशिखामणे त्यज वृथा संचारमन्यैरलं नित्यं शंकरपादपद्मयुगलीनीडे विहारं कुरु॥।४५॥
क्या आप सरकारी नौकरी चाहते हो तो यहाँ क्लिक करें: Click Here
सभी सरकारी योजना की जानकारी या लाभ लेने के लिए यहाँ क्लिक करें: Click Here
आकीर्णे नखराजिकान्तिविभवैरुद्यत्सुधावैभवैः आधौतेऽपि च पद्मरागललिते हंसव्रजैराश्रिते ।
नित्यं भक्तिवधूगणैश्च रहसि स्वेच्छाविहारं कुरु स्थित्वा मानसराजहंस गिरिजानाथांघ्रिसौधान्तरे ॥४६॥
शंभुध्यानवसन्तसंगिनि हृदारामेऽघजीर्णछदाः स्रस्ता भक्तिलताच्छटाविलसिताः पुण्यप्रवालश्रिताः।
दीप्यन्ते गुणकोरकाजपवचःपुष्पाणि सद्वासना ज्ञानानन्दसुधामरन्दलहरी संवित्फलाभ्युन्नतिः ॥४७॥
नित्यानन्दरसालयं सुरमुनिस्वान्तांबुजाताश्रयं स्वच्छं सद्विजसेवितं कलुषहृत्सद्वासनाविष्कृतं ।
शंभुध्यानसरोवरं व्रज मनोहंसावतंस स्थिरं किं क्षुद्राश्रयपल्वलभ्रमणसंजातश्रमं प्राप्स्यसि ॥४८॥
आनन्दामृतपूरिता हरपदांभोजालवालोद्यता स्थैर्योपघ्नमुपेत्य भक्तिलतिका शाखोपशाखान्विता ।
उच्चैर्मानसकायमानपटलीमाक्रम्य निष्कल्मषा नित्याभीष्टफलप्रदा भवतु मे सत्कर्मसंवर्धिता ॥४९॥
संध्यारंभविजृंभितं श्रुतिशिरःस्थानान्तराधिष्ठितं सप्रेमभ्रमराभिराममसकृत्सद्वासनाशोभितम् ।
भोगीन्द्राभरणं समस्तसुमनः पूज्यं गुणाविष्कृतं सेवे श्रीगिरिमल्लिकार्जुनमहालिङ्गं शिवालिङ्गितम् ॥५०॥
10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope ) बनवाए केवल 500/- ( Only India Charges ) में ! Mobile & Whats app Number :+91-9667189678
<<< पिछला पेज पढ़ें अगला पेज पढ़ें >>>
यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )
10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope ) बनवाए केवल 500/- ( Only India Charges ) में ! Mobile & Whats app Number : 7821878500
ऑनलाइन पूजा पाठ ( Online Puja Path ) व् वैदिक मंत्र ( Vaidik Mantra ) का जाप कराने के लिए संपर्क करें Mobile & Whats app Number : 7821878500