ललिता सहस्रनाम फलश्रुति || Lalita Sahasranamam Nama Phala Sruthi || Lalitha Sahasranamam Nama Phala Sruthi

ललिता सहस्रनाम फलश्रुति, Lalita Sahasranamam Nama Phala Sruthi, Lalitha Sahasranamam Nama Phala Sruthi, ललिता सहस्रनाम फलश्रुति के फायदे, Lalita Sahasranamam Nama Phala Sruthi Ke Fayde, ललिता सहस्रनाम फलश्रुति के लाभ, Lalita Sahasranamam Nama Phala Sruthi Ke Labh, Lalita Sahasranamam Nama Phala Sruthi Benefits, Lalita Sahasranamam Nama Phala Sruthi in Sanskrit, Lalita Sahasranamam Nama Phala Sruthi in Hindi, Lalita Sahasranamam Nama Phala Sruthi Pdf, Lalita Sahasranamam Nama Phala Sruthi Mp3 Download, Lalita Sahasranamam Nama Phala Sruthi Lyrics, Lalita Sahasranamam Nama Phala Sruthi in Telugu, Lalita Sahasranamam Nama Phala Sruthi in Tamil, Lalita Sahasranamam Nama Phala Sruthi in Mantra, Lalita Sahasranamam Nama Phala Sruthi in Kannada, Lalitha Sahasranamam Nama Phala Sruthi Pdf, Lalitha Sahasranamam Nama Phala Sruthi Mp3 Download, Lalitha Sahasranamam Nama Phala Sruthi Lyrics.

10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope ) बनवाए केवल 500/- ( Only India Charges ) में ! Mobile & Whats app Number :+91-9667189678

नोट : यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )

30 साल के फ़लादेश के साथ वैदिक जन्मकुंडली बनवाये केवल 500/- ( Only India Charges ) में ! Mobile & Whats app Number : +91-9667189678

हर महीनें का राशिफल, व्रत, ज्योतिष उपाय, वास्तु जानकारी, मंत्र, तंत्र, साधना, पूजा पाठ विधि, पंचांग, मुहूर्त व योग आदि की जानकारी के लिए अभी हमारे Youtube Channel Pandit Lalit Trivedi को Subscribers करना नहीं भूलें, क्लिक करके अभी Subscribers करें : Click Here

ललिता सहस्रनाम फलश्रुति || Lalita Sahasranamam Nama Phala Sruthi || Lalitha Sahasranamam Nama Phala Sruthi

ललिता सहस्रनाम फलश्रुति देवी ललिता त्रिपुरासुंदरी का भक्तिपूर्ण स्तोत्र है ! ललिता सहस्रनाम फलश्रुति का पाठ पढ़ने से जातक सुखी समृद्धि और प्रसिद्धि पाता हैं ! ललिता सहस्रनाम फलश्रुतिके बारे में बताने जा रहे हैं !! जय श्री सीताराम !! जय श्री हनुमान !! जय श्री दुर्गा माँ !! यदि आप अपनी कुंडली दिखा कर परामर्श लेना चाहते हो तो या किसी समस्या से निजात पाना चाहते हो तो कॉल करके या नीचे दिए लाइव चैट ( Live Chat ) से चैट करे साथ ही साथ यदि आप जन्मकुंडली, वर्षफल, या लाल किताब कुंडली भी बनवाने हेतु भी सम्पर्क करें : 9667189678 Lalita Sahasranamam Nama Phala SruthiBy Online Specialist Astrologer Acharya Pandit Lalit Trivedi.

ललिता सहस्रनाम फलश्रुति || Lalita Sahasranamam Nama Phala Sruthi || Lalitha Sahasranamam Nama Phala Sruthi

फलश्रुतिः

(क्षमाख्या द्वादशी कला)

इत्येतन्नामसाहस्रं कथित ते घटोद्भव ।

रहस्यानां रहस्यं च लळिताप्रीतिदायकं ॥ 1॥

अनेन सदृशं स्तोत्रं न भूतं न भविष्यति ।

सर्‍वरोगप्रशमनं सर्‍वसम्पत्प्रवर्‍धनं ॥ 2॥

सर्‍वापमृत्युशमनं कालमृत्युनिवारणं ।

सर्‍वज्वरार्‍तिशमनं दीर्‍घायुष्यप्रदायकं ॥ 3॥

पुत्रप्रदमपुत्राणां पुरुषार्‍त्थप्रदायकं ।

इदं विशेषाच्छ्रीदेव्याः स्तोत्रं प्रीतिविधायकं ॥ 4॥

जपेन्नित्यं प्रयत्नेन ललितोपास्तितत्परः ।

प्रातः स्नात्वा विधानेन क्त्वयाकर्‍म समाप्य च ॥ 5॥

पूजागृहं ततो गत्वा चक्रराजं समर्‍चयेत् ।

विद्यां जपेत् सहस्रं वा त्रिशतं शतमेव वा ॥ 6॥

रहस्यनामसाहस्रमिदं पश्चात्पठेन्नरः ।

जन्‍ममध्ये सकृच्चापि य एतत्पठते सुधीः ॥ 7॥

तस्य पुण्यफलं वक्ष्ये शृणु त्वं कुंभसंभव ।

गङ्गादि सर्‍वतीर्‍थेषु यः स्नायात्कोटिजन्‍मसु ॥ 8॥

कोटिलिङ्गप्रतिष्ठां च यः कुर्यादविमुक्तके ।

कुरुक्षेत्रे तु यो दद्यात्कोटिवारं रविग्रहे ॥ 9॥

कोटिं सौवर्‍णभाराणां श्रोत्रियेषु द्विजन्‍मसु ।

यः कोटिं हयमेधानामाहरेद् गात्ररोधसि ॥ 10॥

आचरेत्कूपकोटीर्यो निर्‍जले मरुभूतले ।

दुर्‍भिक्षे यः प्रतिदिनं कोटिब्राह्मणभोजनं ॥ 11॥

श्रद्धया परया कुर्यात्सहस्रपरिवत्सरान्‍ ।

तत्पुण्यं कोटिगुणितं लभेत्पुण्यमनुत्तमं ॥ 12॥

रहस्यनामसाहस्रे नांरोऽप्येकस्य कीर्‍त्तनात् ।

रहस्यनामसाहस्रे नामैकमपि यः पठेत् ॥ 13॥

तस्य पापानि नश्यन्ति महान्त्यपि न संशयः ।

नित्यकर्‍माननुष्ठानान्निषिद्धकरणादपि ॥ 14॥

यत्पापं जायते पुंसां तत्सर्‍वं नश्यति ध्रुवं ।

बहुनात्र किमुक्तेन शृणु त्वं कुंभसंभव ॥ 15॥

अत्रैकनांनो या शक्तिः पातकानां निवर्‍तने ।

तन्निवर्‍त्यमघं कर्‍तुं नालं लोकाश्चतुर्‍दश ॥ 16॥

यस्त्यक्त्वा नामसाहस्रं पापहानिमभीप्सति ।

स हि शीतनिवृत्यर्‍थं हिमशैले निषेवते ॥ 17॥

भक्तो यः कीर्‍तयेन्नित्यमिदं नामसहस्रकं ।

तस्मै श्रीलितादेवी प्रीताऽभीष्टं प्रयच्छति ॥ 18॥

अकीर्‍तयन्निदं स्तोत्रं कथं भक्तो भविष्यति ।

नित्यं सङ्कीर्‍त्तनाशक्तः कीर्‍तयेत्पुण्यवासरे ॥ 19॥

संक्रान्तौ विषुवे चैव स्वजन्‍मत्रितयेऽयने ।

नवंयां वा चतुर्‍दश्यां सितायां शुक्रवासरे ॥ 20॥

कीर्‍तयेन्नामसाहस्रं पौर्‍णमास्यां विशेषतः ।

पौर्‍णमास्यां चन्द्रबिंबे ध्यात्वा श्रीलळितांबिकां ॥ 21॥

पञ्चोपचारैः सम्पूज्य पठेन्नामसहस्रकं ।

सर्‍वे रोगाः प्रणश्यन्ति दीर्‍घमायुश्च विन्दति ॥ 22॥

क्या आप सरकारी नौकरी चाहते हो तो यहाँ क्लिक करें: Click Here

सभी सरकारी योजना की जानकारी या लाभ लेने के लिए यहाँ क्लिक करें: Click Here

अयमायुष्करो नाम प्रयोगः कल्‍पचोदितः ।

ज्वरार्‍तं शिरसि स्पृष्ट्वा पठेन्नामसहस्रकं ॥ 23॥

तत्क्षणात्प्रशमं याति शिरस्तोदो ज्वरोऽपि च ।

सर्‍वव्याधिनिवृत्त्यर्‍थं स्पृष्ट्वा भस्म जपेदिदं ॥ 24॥

तद्भस्मधारणादेव नश्यन्ति व्याधयः क्षणात् ।

जलं सम्मन्त्र्य कुंभस्थं नामसाहस्रतो मुने ॥ 25॥

अभिषिञ्चेद्ग्रहग्रस्तान्‍ग्रहा नश्यन्ति तत्क्षणात् ।

सुधासागरमध्यस्थां ध्यात्वा श्रीलळितांबिकां ॥ 26॥

यः पठेन्नामसाहस्रं विषं तस्य विनश्यति ।

वन्ध्यानां पुत्रलाभाय नामसाहस्रमन्त्रितं ॥ 27॥

नवनीतं प्रदद्यात्तु पुत्रलाभो भवेदध्रुवं ।

देव्याः पाशेन संबद्धाभाकृष्टाभङ्गुशेन च ॥ 28॥

ध्यात्वाऽभीष्टां स्त्रियं रात्रौ जपेन्नामसहस्रकं ।

आयाति स्वसमीपं सा यद्यप्यन्तः पुरं गता ॥ 29॥

राजाकर्‍षणकामश्चेद्भाजावसथदिङ्मुखः ।

त्रिरात्रं यः पठेतच्छ्रीदेवीध्यानत्परः ॥ 30॥

स राजा पारवश्येन तुरङ्गं वा मतङ्गजं ।

आरुह्यायाति निकटं दासवत्प्रणिपत्य च ॥ 31॥

तस्मै राज्यं च कोशं च ददात्येव वशं गतः ।

रहस्यनामसाहस्रं यः कीर्‍तयति नित्यशः ॥ 32॥

तन्‍मुखालोकमात्रेण मुह्येल्लोकत्रयं मुने ।

यस्त्विदं नामसाहस्रं सकृत्पठति भक्तिमान्‍ ॥ 33॥

तस्य ये शत्रवस्तेषां निहन्ता शरभेश्वरः ।

यो वाऽभिचार कुरुते नामसाहस्रपाठकं ॥ 34॥

निवर्‍त्यं तत्क्रियां हन्यात्तं वै प्रत्यङ्गिरा स्वयं ॥ ।

ये क्रूरदृष्ट्या वीक्षन्ते नामसाहस्रपाठकं ॥ 35॥

तानन्धान्‍कुरुते क्षिप्रं स्वयं मार्‍तण्डभैरवः ।

धनं यो हरते चोरैर्‍नामसाहस्रजापिनः ॥ 36॥

यत्र कुत्र स्थितं वापि क्षेत्रपालो निहन्ति तं ।

विद्यासु कुरुते वादं यो विद्वान्नामजापिना ॥ 37॥

तस्य वाक्यतंभनं सद्यः करोति नकुलेश्वरी ।

यो राजा कुरुते वैरं नामसाहस्रजापिना ॥ 38॥

चतुरङ्गबलं तस्य दण्डिनी संहरेत्स्वयं ।

यः पठेन्नामसाहस्रं षण्‍मासं भक्तिसंयुतः ॥ 39॥

लक्ष्मीश्चान्धल्यरहिता सदा तिष्ठति तहृहे ।

मासमेकं प्रतिदिनं त्रिवारं यः पठेन्नरः ॥ 40॥

भारती तस्य जिह्वाग्रे रङ्गे नृत्यति नित्यशः ।

यस्त्वेकवारं पतति पक्षमात्रमतन्द्रितः ॥ 41॥

मुह्यन्ति कामवशगा मृगाक्ष्यस्तस्य वीक्षणात् ।

यः पठेन्नामसाहस्रं जन्‍ममध्ये सकृन्नरः ॥ 42॥

तद्दृष्टिगोचरास्सर्‍वे मुच्यन्ते सर्‍वकिल्‍बिषैः ।

यो वेत्ति नामसाहस्रं तस्मै देयं द्विजन्‍मने ॥ 43॥

अन्नं वस्नं धनं धान्यं नान्येभ्यस्तु कदाचन ।

श्रीमन्त्रराजं यो वेत्ति श्रीचक्रं यः समर्‍चति ॥ 44॥

क्या आप सरकारी नौकरी चाहते हो तो यहाँ क्लिक करें: Click Here

सभी सरकारी योजना की जानकारी या लाभ लेने के लिए यहाँ क्लिक करें: Click Here

यः कीर्‍तयति नामानि तं सत्पात्रं विदुर्‍बुधाः ।

तस्मै देयं प्रयत्नेन श्रीदेवीप्रीतिमिच्छता ॥ 45॥

न कीर्‍तयति नामानि मन्त्रराजं न वेत्ति यः ।

पशुतुल्यः स विज्ञेयस्तस्मै दत्तं निरर्‍थकं ॥ 46॥

परीक्ष्य विद्याविदुषस्तेभ्यो दद्याद्विचक्षणः ।

श्रीमन्त्रराजसदृशो यथा मन्‍रो न विद्यते ॥ 47॥

देवता लळितातुल्या यथा नास्ति घटोद्भव ।

रहस्यनामसाहस्रतुल्या नास्ति तथा स्तुति ॥ 48॥

लिखित्वा पुस्तके यस्तु नामसाहस्रमुत्तमं ।

समर्‍चयेत्सदा भक्त्या तस्य तुष्यति सुन्दरी ॥ 49॥

बहुनात्र किमुक्तेना शृणु त्वं कुंभसंभव ।

नानेन सदृशं स्तोत्रं सर्‍वतन्त्रेषु दृश्यते ॥ 50॥

तस्मादुपासको नित्यं कीर्‍तयेदिदमादरात् ।

एभिर्‍नामसहस्रैस्तु श्रीचक्रं योऽर्‍चयेत्सकृत् ॥ 51॥

पद्मैर्‍वा तुलसीपुष्पैः कल्‍हारैर्‍वा कदंबकैः ।

चम्पकैर्‍जातिकुसुमैः मल्लिकाकरवीरकैः ॥ 52॥

उत्पलैर्‍बिल्वपत्रैर्‍वा कुन्दकेसरपाटलैः ।

अन्यैः सुगन्धिकुसुमैः केतकीमाधवीमुखैः ॥ 53॥

तस्य पुण्यफलं वक्त्तुं न शक्रोति महेश्वरः ।

सा वेत्ति लळितादेवी स्वचक्रार्‍चनजं फलं ॥ 54॥

अन्ये कथं विजानीयुर्‍ब्रह्माद्याः स्वल्‍पमेधसः ।

प्रतिमासं पौर्‍णमास्यामेभिर्‍नामसहस्रकैः ॥ 55॥

रात्रौ यश्चक्रराजस्थामर्‍चयेत्परदेवतां ।

स एव लळितारूपस्तद्रूपा लळिता स्वयं ॥ 56॥

न तयोर्‍विद्यते भेदो भेदकृत्पापकृद्भवेत् ।

महानवंयां यो भक्तः श्रीदेवीं चक्रमध्यगां ॥ 57॥

अर्‍चयेन्नामसाहस्रैस्तस्य मुक्तिः करे स्थिता ।

यस्तु नामसहस्रेण शुक्रवारे समर्‍चयेत् ॥ 58॥

चक्रराजे महादेवीं तस्य पुण्यफलं शृणु ।

सर्‍वान्‍कामानवाप्येह सर्‍वसौभाग्यसंयुतः ॥ 59॥

पुत्रपौत्रादिसंयुक्तो भुक्त्या भोगान्यथेप्सितान्‍ ।

अन्ते श्रीलळितादेव्याः सायुज्यमतिदुर्लभं ॥ 60॥

प्रार्‍थनीयं शिवाद्यैश्च प्राप्नोत्येव न संशयः ।

यः सहस्रं ब्राह्मणानामेभिर्‍नामसहस्रकैः ॥ 61॥

समर्‍च्य भोजयेद्भक्त्या पायसापूपषड्रसैः ।

तस्मै प्रीणाति लळिता स्वसांराज्यं प्रयच्छति ॥ 62॥

न तस्य दुर्लभं वस्तु त्रिषु लोकेषु विद्यते ।

निष्कामः कीर्‍तयेद्यस्तु नामसाहस्रमुत्तमं ॥ 63॥

ब्रह्यज्ञानमवाप्नोति येन मुच्येत बन्धनात् ।

धनार्‍थी धनमाप्नोति यशोऽर्‍थी चापुयाद्यशः ॥ 64॥

विद्यार्‍त्थी चापुयाद्विद्यां नामसाहस्रकर्‍तिनात् ।

नानेन सदृशं स्तोत्रं भोगमोक्षप्रदं मुने ॥ 65॥

कीर्‍त्तनीयमिदं तस्मार्‍भोगमोक्षार्‍थिभिनरैः ।

चतुराश्रमनिष्ठैश्च कीर्‍त्तनीयमिदंसदा ॥ 66॥

क्या आप सरकारी नौकरी चाहते हो तो यहाँ क्लिक करें: Click Here

सभी सरकारी योजना की जानकारी या लाभ लेने के लिए यहाँ क्लिक करें: Click Here

स्वधर्‍मसमनुष्ठानवैकल्यपरिपूर्‍तये ।

कलौ पापैकबहुले धर्‍म्मानुष्ठानवर्‍जिते ॥ 67॥

नामसङ्कीर्‍त्तनं मुक्त्वा नृणां नान्यत्परायणं ।

लौकिकाद्वचनान्‍मुख्यं विष्णुनामानुकीर्‍त्तनं ॥ 68॥

विष्णुनामसहस्राच्च शिवनामैकमुत्तमं ।

शिवनामसहस्राच्च देव्या नामैकमुत्तमं ॥ 69॥

देवीनामसहस्राणि कोटिशः सन्ति कुंभज ।

तेषु मुख्यं दशविधं नामसाहस्रमुच्यते ॥ 70॥

रहस्यनामसाहस्रमिदं शस्तं दशस्वपि ।

तस्मात्सङ्कीर्‍तयेन्नित्यं कलिदोषनिवृत्तये ॥ 71॥

मुख्यं श्रीमातृनामेति न जानन्ति विमोहिताः ।

विष्णुनामयपराः केच्छिवनामपराः पर ॥ 72॥

न कश्चिदपि लोकेषु लळितानामतत्परः ।

येनान्य देवतानाम कीर्‍तितं जन्‍मकोटिषु ॥ 73॥

तस्यैव भवति श्रद्धा श्रीदेवीनामकीर्‍त्तने ।

चरमे जन्‍मनि यथा श्रीविद्योपासको भवेत् ॥ 74॥

नामसाहस्रपाठश्च तथा चरमजन्‍मनि ।

यथैव विरला लोके श्रीविद्याराजवेदिनः ॥ 75॥

तथैव विरलो गुह्यनामसाहस्रपाठकः ।

मन्त्रराजजपश्चैव चक्रराजार्‍चनं तथा ॥ 76॥

रहस्यनामपाठश्च नाल्‍पस्य तपसः फलं ।

अपठन्नामसाहस्रं प्रीणयेद्यो महेश्वरीं ॥ 77॥

स चक्षुषा विना रूपं पश्येदेव विमूढधीः ।

रहस्यनामसाहस्रं त्यक्त्वा यः सिद्धिकामुकः ॥ 78॥

स भोजनं विना नूनं क्षुन्निचूत्तिमभीप्सति!

स भक्तो लळितादेव्याः स नित्यं कीर्‍तयेदिदं ॥ 79॥

नान्यथा प्रीयते देवी कल्‍पकोटिशतैरपि ।

तस्माद्रहस्यनामानि श्रीमातुः प्रयतः पठेत् ॥ 80॥

इति ते कथितं स्तोत्रं रहस्यं कुंभसंभव ।

नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन ॥ 81॥

यथैव गोप्या श्रीविद्या तथा गोप्यमिदं मुने ।

पशुतुल्येषु न ब्रूयाज्जनेषु स्तोत्रमुत्तमं ॥ 82॥

यो ददाति विमूढात्मा श्रीविद्यारहिताय च ।

तस्मै कुप्यन्ति योगिन्यः सोऽनर्‍थः सुमहान्‍स्मृतः ॥ 83॥

रहस्यनामसाहस्रं तस्मात्सङ्गोपयेदिदं ।

स्वतन्त्रेण भया नोक्तं तवापि कलशोद्भव ॥ 84॥

लळिताप्रेरणेनैव मयोक्तं स्तोत्रमुत्तमं ।

तेन तुष्टा महादेवी तवाभीष्टं प्रदास्यति ॥ 85॥

श्रीसूत उवाच

इत्युक्त्या श्रीहयग्रीवो ध्यात्वा श्रीलळितांबिकां ।

आनन्दमग्रहृदयः सद्यः पुलकितोऽभवत् ॥ 86॥

10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope ) बनवाए केवल 500/- ( Only India Charges ) में ! Mobile & Whats app Number :+91-9667189678

<<< पिछला पेज पढ़ें अगला पेज पढ़ें >>>


यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )

यह पोस्ट आपको कैसी लगी Star Rating दे कर हमें जरुर बताये साथ में कमेंट करके अपनी राय जरुर लिखें धन्यवाद : Click Here

Leave a Comment

Your email address will not be published. Required fields are marked *

You cannot copy content of this page

You cannot copy content of this page