बिल्वाष्टॊत्तर शतनामावली स्तोत्रम || Bilva Ashtottara Shatanamavali Stotram || Bilva Ashtottara Shatanama Stotram

बिल्वाष्टॊत्तर शतनामावली स्तोत्रम, Bilva Ashtottara Shatanamavali Stotram, बिल्वाष्टॊत्तर शतनामावली स्तोत्रम के फायदे, Bilva Ashtottara Shatanamavali Stotram Ke Fayde, बिल्वाष्टॊत्तर शतनामावली स्तोत्रम के लाभ, Bilva Ashtottara Shatanamavali Stotram Ke Labh, Bilva Ashtottara Shatanamavali Stotram Benefits, Bilva Ashtottara Shatanamavali Stotram in Sanskrit, Bilva Ashtottara Shatanamavali Stotram in Hindi, Bilva Ashtottara Shatanamavali Stotram Pdf, Bilva Ashtottara Shatanamavali Stotram Mp3 Download, Bilva Ashtottara Shatanamavali Stotram Lyrics, Bilva Ashtottara Shatanamavali Stotram in Telugu, Bilva Ashtottara Shatanamavali Stotram in Tamil, Bilva Ashtottara Shatanamavali Stotram in Mantra, Bilva Ashtottara Shatanamavali Stotram in Kannada, Bilva Ashtottara Shatanama Stotram Pdf, Bilva Ashtottara Shatanama Stotram Mp3 Download, Bilva Ashtottara Shatanama Stotram Lyrics.

10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope ) बनवाए केवल 500/- ( Only India Charges ) में ! Mobile & Whats app Number :+91-9667189678

नोट : यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )

30 साल के फ़लादेश के साथ वैदिक जन्मकुंडली बनवाये केवल 500/- ( Only India Charges ) में ! Mobile & Whats app Number : +91-9667189678

हर महीनें का राशिफल, व्रत, ज्योतिष उपाय, वास्तु जानकारी, मंत्र, तंत्र, साधना, पूजा पाठ विधि, पंचांग, मुहूर्त व योग आदि की जानकारी के लिए अभी हमारे Youtube Channel Pandit Lalit Trivedi को Subscribers करना नहीं भूलें, क्लिक करके अभी Subscribers करें : Click Here

बिल्वाष्टॊत्तर शतनामावली स्तोत्रम || Bilva Ashtottara Shatanamavali Stotram || Bilva Ashtottara Shatanama Stotram

बिल्वाष्टॊत्तर शतनामावली स्तोत्रम भगवान शिव जी को समर्पित हैं ! बिल्वाष्टॊत्तर शतनामावली स्तोत्रम आदि के बारे में बताने जा रहे हैं !! जय श्री सीताराम !! जय श्री हनुमान !! जय श्री दुर्गा माँ !! यदि आप अपनी कुंडली दिखा कर परामर्श लेना चाहते हो तो या किसी समस्या से निजात पाना चाहते हो तो कॉल करके या नीचे दिए लाइव चैट ( Live Chat ) से चैट करे साथ ही साथ यदि आप जन्मकुंडली, वर्षफल, या लाल किताब कुंडली भी बनवाने हेतु भी सम्पर्क करें :9667189678 Bilva Ashtottara Shatanamavali Stotram By Online Specialist Astrologer Acharya Pandit Lalit Trivedi.

बिल्वाष्टॊत्तर शतनामावली स्तोत्रम || Bilva Ashtottara Shatanamavali Stotram || Bilva Ashtottara Shatanama Stotram

त्रिदळं त्रिगुणाकारं । त्रिनॆत्रं च त्रियायुधम्‌ ॥
त्रिजन्म पापसंहारं । ऎकबिल्वं शिवार्पणम्‌ ॥ १ ॥

त्रिशाखैः बिल्वपत्रैश्च । अच्छिद्रैः कॊमलैः शुभैः ॥
तवपूजां करिष्यामि । ऎकबिल्वं शिवार्पणम्‌ ॥ २ ॥

सर्वत्रै लॊक्य कर्तारं । सर्वत्रै लॊक्य पावनम्‌ ।
सर्वत्रै लॊक्य हर्तारं । ऎकबिल्वं शिवार्पणम्‌ ॥ ३ ॥

नागाधिराज वलयं । नागहारॆण भूषितम्‌ ॥
नागकुंडल संयुक्तं । ऎकबिल्वं शिवार्पणम्‌ ॥ ४ ॥

अक्षमालाधरं रुद्रं । पार्वती प्रियवल्लभम्‌ ॥
चंद्रशॆखरमीशानं । ऎकबिल्वं शिवार्पणम्‌ ॥ ५ ॥

त्रिलॊचनं दशभुजं । दुर्गादॆहार्ध धारिणम्‌ ॥
विभूत्यभ्यर्चितं दॆवं । ऎकबिल्वं शिवार्पणम्‌ ॥ ६ ॥

त्रिशूलधारिणं दॆवं । नागाभरण सुंदरम ॥
चंद्रशॆखर मीशानं । ऎकबिल्वं शिवार्पणम्‌ ॥ ७ ॥

गंगाधरांबिकानाथं । फणिकुंडल मंडितम्‌ ।
कालकालं गिरीशं च । ऎकबिल्वं शिवार्पणम्‌ ॥ ८ ॥

शुद्धस्फटिक संकाशं । शितिकंठं कृपानिधिम्‌ ॥
सर्वॆश्वरं सदाशांतं । ऎकबिल्वं शिवार्पणम्‌ ॥ ९ ॥

सच्चिदानंदरूपं च । परानंदमयं शिवम्‌ ॥
वागीश्वरं चिदाकाशं । ऎकबिल्वं शिवार्पणम्‌ ॥ १० ॥

शिपिविष्टं सहस्राक्षं । दुंदुभ्यं च निषंगिणम्‌ ।
हिरण्यबाहुं सॆनान्यं । ऎकबिल्वं शिवार्पणम्‌ ॥ ११ ॥

अरुणं वामनं तारं । वास्तव्यं चैव वास्तुकम्‌ ॥
ज्यॆष्ठं कनिष्ठं वैशंतं । ऎकबिल्वं शिवार्पणम्‌ ॥ १२ ॥

हरिकॆशं सनंदीशं । उच्छैद्घॊषं सनातनम्‌ ॥
अघॊर रूपकं कुंभं । ऎकबिल्वं शिवार्पणम्‌ ॥ १३ ॥

पूर्वजावरजं याम्यं । सूक्ष्मं तस्कर नायकम्‌ ॥
नीलकंठं जघन्यं च । ऎकबिल्वं शिवार्पणम्‌ ॥ १४ ॥

सुराश्रयं विषहरं । वर्मिणं च वरूथिनम्‌ ॥
महासॆनं महावीरं । ऎकबिल्वं शिवार्पणम्‌ ॥ १५ ॥

कुमारं कुशलं कूप्यं । वदान्यं च महारथम्‌ ॥
तौर्यातौर्यं च दॆव्यं च । ऎकबिल्वं शिवार्पणम्‌ ॥ १६ ॥

दशकर्णं ललाटाक्षं । पंचवक्त्रं सदाशिवम्‌ ॥
अशॆष पापसंहारं । ऎकबिल्वं शिवार्पणम्‌ ॥ १७ ॥

नीलकंठं जगद्वंद्यं । दीननाथं महॆश्वरम्‌ ॥
महापापहरं शंभुं । ऎकबिल्वं शिवार्पणम्‌ ॥ १८ ॥

चूडामणी कृतविधुं । वलयीकृत वासुकिम्‌ ॥
कैलास निलयं भीमं । ऎकबिल्वं शिवार्पणम्‌ ॥ १९॥

कर्पूर कुंद धवळं । नरकार्णव तारकम्‌ ॥
करुणामृत सिंधुं च । ऎकबिल्वं शिवार्पणम्‌ ॥ २० ॥

महादॆवं महात्मानं । भुजंगाधिप कंकणम्‌ ।
महापापहरं दॆवं । ऎकबिल्वं शिवार्पणम्‌ ॥ २१ ॥

भूतॆशं खंडपरशुं । वामदॆवं पिनाकिनम्‌ ॥
वामॆ शक्तिधरं श्रॆष्ठं । ऎकबिल्वं शिवार्पणम्‌ ॥ २२ ॥

फालॆक्षणं विरूपाक्षं । श्रीकंठं भक्तवत्सलम्‌ ॥
नीललॊहित खट्वांगं । ऎकबिल्वं शिवार्पणम्‌ ॥ २३ ॥

कैलासवासिनं भीमं । कठॊरं त्रिपुरांतकम्‌ ॥
वृषांकं वृषभारूढं । ऎकबिल्वं शिवार्पणम्‌ ॥ २४ ॥

सामप्रियं सर्वमयं । भस्मॊद्धूळित विग्रहम्‌॥
मृत्युंजयं लॊकनाथं । ऎकबिल्वं शिवार्पणम्‌ ॥ २५ ॥

दारिद्र्य दुःखहरणं । रविचंद्रानलॆक्षणम्‌ ॥
मृगपाणिं चंद्रमौळिं । ऎकबिल्वं शिवार्पणम्‌ ॥ २६ ॥

सर्वलॊक भयाकारं । सर्वलॊकैक साक्षिणम्‌ ॥
निर्मलं निर्गुणाकारं । ऎकबिल्वं शिवार्पणम्‌ ॥ २७ ॥

सर्वतत्त्वात्मिकं सांबं । सर्वतत्त्वविदूरकम्‌ ॥
सर्वतत्व स्वरूपं च । ऎकबिल्वं शिवार्पणम्‌ ॥ २८ ॥

सर्वलॊक गुरुं स्थाणुं । सर्वलॊक वरप्रदम्‌ ॥
सर्वलॊकैकनॆत्रं च । ऎकबिल्वं शिवार्पणम्‌ ॥ २९ ॥

मन्मथॊद्धरणं शैवं । भवभर्गं परात्मकम्‌ ॥
कमलाप्रिय पूज्यं च । ऎकबिल्वं शिवार्पणम्‌ ॥ ३० ॥

क्या आप सरकारी नौकरी चाहते हो तो यहाँ क्लिक करें: Click Here

सभी सरकारी योजना की जानकारी या लाभ लेने के लिए यहाँ क्लिक करें: Click Here

तॆजॊमयं महाभीमं । उमॆशं भस्मलॆपनम्‌ ॥
भवरॊगविनाशं च । ऎकबिल्वं शिवार्पणम्‌ ॥ ३१ ॥

स्वर्गापवर्ग फलदं । रघूनाथ वरप्रदम्‌ ॥
नगराज सुताकांतं । ऎकबिल्वं शिवार्पणम्‌ ॥ ३२ ॥

मंजीर पादयुगलं । शुभलक्षण लक्षितम्‌ ॥
फणिराज विराजं च । ऎकबिल्वं शिवार्पणम्‌ ॥ ३३ ॥

निरामयं निराधारं । निस्संगं निष्प्रपंचकम्‌ ॥
तॆजॊरूपं महारौद्रं । ऎकबिल्वं शिवार्पणम्‌ ॥ ३४ ॥

सर्वलॊकैक पितरं । सर्वलॊकैक मातरम्‌ ॥
सर्वलॊकैक नाथं च । ऎकबिल्वं शिवार्पणम्‌ ॥ ३५ ॥

चित्रांबरं निराभासं । वृषभॆश्वर वाहनम्‌ ॥
नीलग्रीवं चतुर्वक्त्रं । ऎकबिल्वं शिवार्पणम्‌ ॥ ३६ ॥

रत्नकंचुक रत्नॆशं । रत्नकुंडल मंडितम्‌ ॥
नवरत्न किरीटं च । ऎकबिल्वं शिवार्पणम्‌ ॥ ३७ ॥

दिव्यरत्नांगुलीकर्णं । कंठाभरण भूषितम्‌ ॥
नानारत्न मणिमयं । ऎकबिल्वं शिवार्पणम्‌ ॥ ३८ ॥

रत्नांगुळीय विलसत्‌ । करशाखानखप्रभम्‌ ॥
भक्तमानस गॆहं च । ऎकबिल्वं शिवार्पणम्‌ ॥ ३९ ॥

वामांगभाग विलसत्‌ । अंबिका वीक्षण प्रियम्‌ ॥
पुंडरीकनिभाक्षं च । ऎकबिल्वं शिवार्पणम्‌ ॥ ४० ॥

संपूर्ण कामदं सौख्यं । भक्तॆष्ट फलकारणम्‌ ॥
सौभाग्यदं हितकरं । ऎकबिल्वं शिवार्पणम्‌ ॥ ४१ ॥

नानाशास्त्र गुणॊपॆतं । शुभन्मंगळ विग्रहम्‌ ॥
विद्याविभॆद रहितं । ऎकबिल्वं शिवार्पणम्‌ ॥ ४२ ॥

अप्रमॆय गुणाधारं । वॆदकृद्रूप विग्रहम्‌ ॥
धर्माधर्मप्रवृत्तं च । ऎकबिल्वं शिवार्पणम्‌ ॥ ४३ ॥

गौरीविलास सदनं । जीवजीव पितामहम्‌ ॥
कल्पांतभैरवं शुभ्रं । ऎकबिल्वं शिवार्पणम्‌ ॥ ४४ ॥

सुखदं सुखनाथं च । दुःखदं दुःखनाशनम्‌ ॥
दुःखावतारं भद्रं च । ऎकबिल्वं शिवार्पणम्‌ ॥ ४५ ॥

सुखरूपं रूपनाशं । सर्वधर्म फलप्रदम्‌ ॥
अतींद्रियं महामायं । ऎकबिल्वं शिवार्पणम्‌ ॥ ४६ ॥

सर्वपक्षिमृगाकारं । सर्वपक्षिमृगाधिपम्‌ ॥
सर्वपक्षिमृगाधारं । ऎकबिल्वं शिवार्पणम्‌ ॥ ४७ ॥

जीवाध्यक्षं जीववंद्यं । जीवजीवन रक्षकम्‌ ॥
जीवकृज्जीवहरणं । ऎकबिल्वं शिवार्पणम्‌ ॥ ४८ ॥

विश्वात्मानं विश्ववंद्यं । वज्रात्मा वज्रहस्तकम्‌ ॥
वज्रॆशं वज्रभूषं च । ऎकबिल्वं शिवार्पणम्‌ ॥ ४९ ॥

गणाधिपं गणाध्यक्षं । प्रळयानल नाशकम्‌ ॥
जितॆंद्रियं वीरभद्रं । ऎकबिल्वं शिवार्पणम्‌ ॥ ५० ॥

त्रयंबकं वृत्तशूरं । अरिषड्वर्ग नाशकम्‌ ॥
दिगंबरं क्षॊभनाशं । ऎकबिल्वं शिवार्पणम्‌ ॥ ५१ ॥

कुंदॆंदु शंखधवळं । भगनॆत्र भिदुज्ज्वलम्‌ ।
कालाग्निरुद्रं सर्वज्ञं । ऎकबिल्वं शिवार्पणम्‌ ॥ ५२ ॥

कंबुग्रीवं कंबुकंठं । धैर्यदं धैर्यवर्धकम्‌ ॥
शार्दूलचर्मवसनं । ऎकबिल्वं शिवार्पणम्‌ ॥ ५३ ॥

जगदुत्पत्ति हॆतुं च । जगत्प्रळयकारणम्‌ ॥
पूर्णानंद स्वरूपं च । ऎकबिल्वं शिवार्पणम्‌ ॥ ५४ ॥

स्वर्गकॆशं महत्तॆजं । पुण्यश्रवण कीर्तनम्‌ ॥
ब्रह्मांडनायकं तारं । ऎकबिल्वं शिवार्पणम्‌ ॥ ५५ ॥

मंदार मूलनिलयं । मंदार कुसुमप्रियम्‌ ॥
बृंदारक प्रियतरं । ऎकबिल्वं शिवार्पणम्‌ ॥ ५६ ॥

महॆंद्रियं महाबाहुं । विश्वासपरिपूरकम्‌ ॥
सुलभासुलभं लभ्यं । ऎकबिल्वं शिवार्पणम्‌ ॥ ५७ ॥

बीजाधारं बीजरूपं । निर्बीजं बीजवृद्धिदम्‌ ॥
परॆशं बीजनाशं च । ऎकबिल्वं शिवार्पणम्‌ ॥ ५८ ॥

युगाकारं युगाधीशं । युगकृद्युगनाशनम्‌ ॥
परॆशं बीजनाशं च । ऎकबिल्वं शिवार्पणम्‌ ॥ ५९ ॥

धूर्जटिं पिंगळजटं । जटामंडल मंडितम्‌ ॥
कर्पूरगौरं गौरीशं । ऎकबिल्वं शिवार्पणम्‌ ॥ ६० ॥

क्या आप सरकारी नौकरी चाहते हो तो यहाँ क्लिक करें: Click Here

सभी सरकारी योजना की जानकारी या लाभ लेने के लिए यहाँ क्लिक करें: Click Here

सुरावासं जनावासं । यॊगीशं यॊगिपुंगवम्‌ ॥
यॊगदं यॊगिनां सिंहं । ऎक बिल्वं शिवार्पणम्‌ ॥ ६१ ॥

उत्तमानुत्तमं तत्त्वं । अंधकासुर सूदनम्‌ ॥
भक्तकल्पद्रुमं स्तॊमं । ऎक बिल्वं शिवार्पणम्‌ ॥ ६२ ॥

विचित्र माल्य वसनं । दिव्यचंदन चर्चितम्‌ ॥
विष्णुब्रह्मादि वंद्यं च । ऎक बिल्वं शिवार्पणम्‌ ॥ ६३ ॥

कुमारं पितरं दॆवं । सितचंद्र कलानिधिम्‌ ॥
ब्रह्मशतृजगन्मित्रं । ऎक बिल्वं शिवार्पणम्‌ ॥ ६४ ॥

लावण्य मधुराकारं । करुणारस वारिधिम्‌ ॥
भृवॊर्मध्यॆ सहस्रार्चिं । ऎक बिल्वं शिवार्पणम्‌ ॥ ६५ ॥

जटाधरं पावकाक्षं । वृक्षॆशं भूमिनायकम्‌ ॥
कामदं सर्वदागम्यं । ऎक बिल्वं शिवार्पणम्‌ ॥ ६६ ॥

शिवं शांतं उमानाथं । महाध्यान परायणम्‌ ॥
ज्ञानप्रदं कृत्तिवासं । ऎक बिल्वं शिवार्पणम्‌ ॥ ६७ ॥

वासुक्युरगहारं च । लॊकानुग्रह कारणम्‌ ॥
ज्ञानप्रदं कृत्तिवासं । ऎक बिल्वं शिवार्पणम्‌ ॥ ६८ ॥

शशांकधारिणं भर्गं । सर्वलॊकैक शंकरम्‌ ॥
शुद्धं च शाश्वतं नित्यं । ऎक बिल्वं शिवार्पणम्‌ ॥ ६९ ॥

शरणागत दीनार्थि । परित्राण परायणम्‌ ॥
गंभीरं च वषट्कारं । ऎक बिल्वं शिवार्पणम्‌ ॥ ७० ॥

भॊक्तारं भॊजनं भॊज्यं । चॆतारं जितमानसम्‌ ॥
करणं कारणं जिष्णुं । ऎक बिल्वं शिवार्पणम्‌ ॥ ७१ ॥

क्षॆत्रज्ञं क्षॆत्र पालं च । परार्थैक प्रयॊजनम्‌ ॥
व्यॊमकॆशं भीमदॆवं । ऎक बिल्वं शिवार्पणम्‌ ॥ ७२ ॥

भवघ्नं तरुणॊपॆतं । क्षॊदिष्ठं यम नाशनम्‌ ॥
हिरण्यगर्भं हॆमांगं । ऎक बिल्वं शिवार्पणम्‌ ॥ ७३ ॥

दक्षं चामुंड जनकं । मॊक्षदं मॊक्षकारणम्‌ ॥
हिरण्यदं हॆमरूपं । ऎक बिल्वं शिवार्पणम्‌ ॥ ७४ ॥

महाश्मशाननिलयं । प्रच्छन्नस्फटिकप्रभम्‌ ॥
वॆदास्यं वॆदरूपं च । ऎक बिल्वं शिवार्पणम्‌ ॥ ७५ ॥

स्थिरं धर्मं उमानाथं । ब्रह्मण्यं चाश्रयं विभुम्‌ ॥
जगन्निवासं प्रथमं । ऎक बिल्वं शिवार्पणम्‌ ॥ ७६ ॥

रुद्राक्षमालाभरणं । रुद्राक्षप्रियवत्सलम्‌ ॥
रुद्राक्षभक्तसंस्तॊमं । ऎक बिल्वं शिवार्पणम्‌ ॥ ७७ ॥

फणींद्र विलसत्कंठं । भुजंगाभरणप्रियम्‌ ॥
दक्षाध्वर विनाशं च । ऎक बिल्वं शिवार्पणम्‌ ॥ ७८ ॥

नागॆंद्र विलसत्कर्णं । महॆंद्र वलयावृतम्‌ ॥
मुनिवंद्यं मुनिश्रॆष्ठं । ऎक बिल्वं शिवार्पणम्‌ ॥ ७९ ॥

मृगॆंद्र चर्मवसनं । मुनिनामॆक जीवनम्‌ ॥
सर्वदॆवादि पूज्यं च । ऎक बिल्वं शिवार्पणम्‌ ॥ ८० ॥

निधिनॆशं धनाधीशं । अपमृत्यु विनाशनम्‌ ॥
लिंगमूर्तिं लिंगात्मं । ऎक बिल्वं शिवार्पणम्‌ ॥ ८१ ॥

भक्तकल्याणदं व्यस्तं । वॆद वॆदांत संस्तुतम्‌ ॥
कल्पकृत्‌ कल्पनाशं च । ऎक बिल्वं शिवार्पणम्‌ ॥ ८२ ॥

घॊरपातक दावाग्निं । जन्मकर्म विवर्जितम्‌ ॥
कपाल मालाभरणं । ऎक बिल्वं शिवार्पणम्‌ ॥ ८३ ॥

मातंग चर्म वसनं । विराड्रूप विदारकम्‌ ॥
विष्णुक्रांतमनंतं च । ऎक बिल्वं शिवार्पणम्‌ ॥ ८४ ॥

यज्ञकर्मफलाध्यक्षं । यज्ञ विघ्न विनाशकम्‌ ॥
यज्ञॆशं यज्ञ भॊक्तारं । ऎक बिल्वं शिवार्पणम्‌ ॥ ८५ ॥

कालाधीशं त्रिकालज्ञं । दुष्टनिग्रह कारकम्‌ ॥
यॊगिमानसपूज्यं च । ऎक बिल्वं शिवार्पणम्‌ ॥ ८६ ॥

महॊन्नतं महाकायं । महॊदर महाभुजम्‌ ॥
महावक्त्रं महावृद्धं । ऎक बिल्वं शिवार्पणम्‌ ॥ ८७ ॥

सुनॆत्रं सुललाटं च । सर्वभीमपराक्रमम्‌ ॥
महॆश्वरं शिवतरं । ऎक बिल्वं शिवार्पणम्‌ ॥ ८८ ॥

समस्त जगदाधारं । समस्त गुणसागरम्‌ ॥
सत्यं सत्यगुणॊपॆतं । ऎक बिल्वं शिवार्पणम्‌ ॥ ८९ ॥

माघकृष्ण चतुर्दश्यां । पूजार्थं च जगद्गुरॊः ॥
दुर्लभं सर्वदॆवानां । ऎक बिल्वं शिवार्पणम्‌ ॥ ९० ॥

क्या आप सरकारी नौकरी चाहते हो तो यहाँ क्लिक करें: Click Here

सभी सरकारी योजना की जानकारी या लाभ लेने के लिए यहाँ क्लिक करें: Click Here

तत्रापि दुर्लभं मन्यॆत्‌ । नभॊ मासॆंदु वासरॆ ॥
प्रदॊषकालॆ पूजायां । ऎक बिल्वं शिवार्पणम्‌ ॥ ९१ ॥

तटाकं धननिक्षॆपं । ब्रह्मस्थाप्यं शिवालयम्‌ ॥
कॊटिकन्या महादानं । ऎक बिल्वं शिवार्पणम्‌ ॥ ९२ ॥

दर्शनं बिल्ववृक्षस्य । स्पर्शनं पापनाशनम्‌ ॥
अघॊर पापसंहारं । ऎक बिल्वं शिवार्पणम्‌ ॥ ९३ ॥

तुलसी बिल्वनिर्गुंडी । जंबीरामलकं तथा ॥
पंचबिल्व मितिख्यातं । ऎक बिल्वं शिवार्पणम्‌ ॥ ९४ ॥

अखंड बिल्वपत्र्यैश्च । पूजयॆन्नंदिकॆश्वरम्‌ ॥
मुच्यतॆ सर्वपापॆभ्यः । ऎक बिल्वं शिवार्पणम्‌ ॥ ९५ ॥

सालंकृता शतावृत्ता । कन्याकॊटि सहस्रकम्‌ ॥
साम्याज्यपृथ्वी दानं च । ऎक बिल्वं शिवार्पणम्‌ ॥ ९६ ॥

दंत्यश्वकॊटि दानानि । अश्वमॆध सहस्रकम्‌ ॥
सवत्सधॆनु दानानि । ऎक बिल्वं शिवार्पणम्‌ ॥ ९७ ॥

चतुर्वॆद सहस्राणि । भारतादि पुराणकम्‌ ॥
साम्राज्य पृथ्वी दानं च । ऎक बिल्वं शिवार्पणम्‌ ॥ ९८ ॥

सर्वरत्नमयं मॆरुं । कांचनं दिव्यवस्त्रकम्‌ ॥
तुलाभागं शतावर्तं । ऎक बिल्वं शिवार्पणम्‌ ॥ ९९ ॥

अष्टोत्तर शतं बिल्वं । यॊर्चयॆत्‌ लिंगमस्तकॆ ॥
अथर्वॊक्तं वदॆद्यस्तु । ऎक बिल्वं शिवार्पणम्‌ ॥ १०० ॥

काशीक्षॆत्र निवासं च । कालभैरव दर्शनम्‌ ॥
अघॊर पापसंहारं । ऎक बिल्वं शिवार्पणम्‌ ॥ १०१ ॥

अष्टोत्तर शतश्लॊकैः । स्तॊत्राद्यैः पूजयॆद्यथा ॥
त्रिसंध्यं मॊक्षमाप्नॊति । ऎक बिल्वं शिवार्पणम्‌ ॥ १०२ ॥

दंतिकॊटि सहस्राणां । भूः हिरण्य सहस्रकम्‌ ॥
सर्वक्रतुमयं पुण्यं । ऎक बिल्वं शिवार्पणम्‌ ॥ १०३ ॥

पुत्रपौत्रादिकं भॊगं । भुक्त्वाचात्र यथॆप्सितम्‌ ॥
अंत्यॆ च शिवसायुज्यं । ऎक बिल्वं शिवार्पणम्‌ ॥ १०४ ॥

विप्रकॊटि सहस्राणां । वित्तदानांच्चयत्फलम्‌ ॥
तत्फलं प्राप्नुयात्सत्यं । ऎक बिल्वं शिवार्पणम्‌ ॥ १०५ ॥

त्वन्नामकीर्तनं तत्त्वं ॥ तव पादांबु यः पिबॆत्‌ ॥
जीवन्मुक्तॊभवॆन्नित्यं । ऎक बिल्वं शिवार्पणम्‌ ॥ १०६ ॥

अनॆक दान फलदं । अनंत सुकृताधिकम्‌ ॥
तीर्थयात्राखिलं पुण्यं । ऎक बिल्वं शिवार्पणम्‌ ॥ १०७ ॥

त्वं मां पालय सर्वत्र । पदध्यान कृतं तव ।
भवनं शांकरं नित्यं । ऎक बिल्वं शिवार्पणम्‌ ॥ १०८ ॥

उमयासहितं दॆवं । सवाहनगणं शिवम्‌ ॥
भस्मानुलिप्तसर्वांगं । ऎक बिल्वं शिवार्पणम्‌ ॥ १०९ ॥

सालग्राम सहस्राणि । विप्राणां शतकॊटिकम्‌ ॥
यज्ञकॊटिसहस्राणि । ऎक बिल्वं शिवार्पणम्‌ ॥ ११० ॥

अज्ञानॆन कृतं पापं । ज्ञानॆनाभिकृतं च यत्‌ ॥
तत्सर्वं नाशमायातु । ऎक बिल्वं शिवार्पणम्‌ ॥ १११ ॥

अमृतॊद्भववृक्षस्य । महादॆव प्रियस्य च ॥
मुच्यंतॆ कंटकाघातात्‌ । कंटकॆभ्यॊ हि मानवाः ॥ ११२ ॥

ऎकैकबिल्वपत्रॆण कॊटि यज्ञ फलं लभॆत्‌ ॥
महादॆवस्य पूजार्थं । ऎक बिल्वं शिवार्पणम्‌ ॥ ११३ ॥

ऎककालॆ पठॆन्नित्यं सर्वशत्रुनिवारणम्‌ ।
द्विकालॆ च पठॆन्नित्यं मनॊरथपलप्रदम्‌ ॥

त्रिकालॆ च पठॆन्नित्यं आयुर्वर्ध्यॊ धनप्रदम्‌ ।
अचिरात्कार्यसिद्धिं च लभतॆ नात्र संशयः ॥

ऎककालं द्विकालं वा त्रिकालं यः पठॆन्नरः ।
लक्ष्मीप्राप्तिश्शिवावासः शिवॆन सह मॊदतॆ ॥

कॊटिजन्मकृतं पापं अर्चनॆन विनश्यति ।
सप्तजन्म कृतं पापं श्रवणॆन विनश्यति ॥

जन्मांतरकृतं पापं पठनॆन विनश्यति ।
दिवारत्र कृतं पापं दर्शनॆन विनश्यति ॥

क्षणॆक्षणॆकृतं पापं स्मरणॆन विनश्यति ।
पुस्तकं धारयॆद्दॆही आरॊग्यं भयनाशनम्‌ ॥

॥ श्री बिल्वाष्टॊत्तर शतनामावलिः संपूर्णम्‌ ॥

10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope ) बनवाए केवल 500/- ( Only India Charges ) में ! Mobile & Whats app Number :+91-9667189678

<<< पिछला पेज पढ़ें अगला पेज पढ़ें >>>


यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )

यह पोस्ट आपको कैसी लगी Star Rating दे कर हमें जरुर बताये साथ में कमेंट करके अपनी राय जरुर लिखें धन्यवाद : Click Here

Leave a Comment

Your email address will not be published. Required fields are marked *

You cannot copy content of this page

You cannot copy content of this page